|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.165. अध्यायः 165
Mahabharata - Adi Parva - Chapter Topics
पाण्डवान्प्रति प्रेषितया हिडिम्बया विलम्बिते हिडिम्बस्य तत्रागमनम्॥ 1 ॥
भीमहिडिम्बयोर्युद्धम्॥ 2 ॥
कुन्त्यादीनां प्रबोधः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-165-0x(961)(7514)
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः।
अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान्॥ 1-165-1(7515)
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः।
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः॥ 1-165-2(7516)
तलं तलेन संहत्य बाहू विक्षिप्य चासकृत्।
उद्वृत्तनेत्रः संक्रुद्धो दन्तान्दन्तेषु निष्कुषन्॥ 1-165-3(7517)
कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः।
न बिभेति हिडिम्बी च प्रेषिता किमनागता॥ 1-165-4(7518)
वैशम्पायन उवाच। 1-165-5x(962)
तमापतन्तं दृष्ट्वै तथा विकृतदर्शनम्।
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः॥ 1-165-5(7519)
आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः।
साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु॥ 1-165-6(7520)
अहं कामगमा वीर रक्षोबलसमन्विता।
आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा॥ 1-165-7(7521)
प्रबोधयैतान्संसुप्तान्मातरं च परन्तप।
सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा॥ 1-165-8(7522)
भीम उवाच। 1-165-9x(963)
मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते।
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे॥ 1-165-9(7523)
नायं प्रतिबलो भीरु राक्षसापसदो मम।
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः॥ 1-165-10(7524)
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ।
ऊरू परिघसङ्काशौ संहतं चाप्युरो महत्॥ 1-165-11(7525)
विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने।
माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम्॥ 1-165-12(7526)
हिडिम्बोवाच। 1-165-13x(964)
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम्।
दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः॥ 1-165-13(7527)
वैशम्पायन उवाच। 1-165-14x(965)
तथा संजल्पतस्तस्य भीमसेनस्य भारत।
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः॥ 1-165-14(7528)
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः।
स्रग्दामपूरितशिखां समग्रेन्दुनिभाननाम्॥ 1-165-15(7529)
सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम्।
सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरधारिणीम्॥ 1-165-16(7530)
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम्।
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः॥ 1-165-17(7531)
संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम।
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत्॥ 1-165-18(7532)
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः।
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता॥ 1-165-19(7533)
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि।
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि॥ 1-165-20(7534)
यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम।
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह॥ 1-165-21(7535)
वैशम्पायन उवाच। 1-165-22x(966)
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः।
वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन्॥ 1-165-22(7536)
गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम्।
रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा॥ 1-165-23(7537)
तमापतान्तं संप्रेक्ष्य भीमः प्रहरतां वरः।
भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चाब्रवीत्॥ 1-165-24(7538)
वैशम्पायन उवाच। 1-165-25x(967)
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव।
भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत्॥ 1-165-25(7539)
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः।
मामासादय दुर्बुद्धे तरसा त्वं नराशन॥ 1-165-26(7540)
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि।
विशेषतोऽनपकृते परेणापकृते सति॥ 1-165-27(7541)
न हीयं स्ववशा बाला कामयत्यद्य मामिह।
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा॥ 1-165-28(7542)
भगिनी तव दुर्वृत्त रक्षसां वै यशोहर।
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च॥ 1-165-29(7543)
कामयत्यद्य मां भीरुस्तव नैषापराध्यति।
अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि॥ 1-165-30(7544)
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि।
संगच्छस्व मया सार्धमेकेनैको नराशन॥ 1-165-31(7545)
अहमेको गमिष्यामि त्वामद्य यमसादनम्।
अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम्।
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसाः॥ 1-165-32(7546)
अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे॥ 1-165-33(7547)
क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम्।
पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान्॥ 1-165-34(7548)
अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत्।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्॥ 1-165-35(7549)
निराबाधास्त्वयि हते मया राक्षसपांसन।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः॥ 1-165-36(7550)
हिडिम्ब उवाच। 1-165-37x(968)
गर्जितेन वृथा किं ते कत्थितेन च मानुष।
कृत्वैतत्कर्मणा सर्वं कत्थेया मा चिरं कृथाः॥ 1-165-37(7551)
बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम्।
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम्॥ 1-165-38(7552)
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम्।
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम्॥ 1-165-39(7553)
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि।
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम्॥ 1-165-40(7554)
वैशम्पायन उवाच। 1-165-41x(969)
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः।
अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दमम्॥ 1-165-41(7555)
तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः।
वेगेन प्रहितं बाहुं निजग्राह हसन्निव॥ 1-165-42(7556)
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा॥ 1-165-43(7557)
ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम्॥ 1-165-44(7558)
पुनर्भीमो बलादेनं विचकर्ष महाबलः।
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति॥ 1-165-45(7559)
`हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान्।
पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा॥' 1-165-46(7560)
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा।
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम्॥ 1-165-47(7561)
बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा।
मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ॥ 1-165-48(7562)
`पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ।
स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः॥ 1-165-49(7563)
वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः।
बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ॥ 1-165-50(7564)
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम्।
पुरा देवासुरे युद्धे वृत्रवासवयोरिव॥ 1-165-51(7565)
भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा।
सालतालतमालाम्रवटार्जुनविभीतकान्॥ 1-165-52(7566)
न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान्।
एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान्॥ 1-165-53(7567)
उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे।
यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम्॥ 1-165-54(7568)
तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा।
ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान्॥ 1-165-55(7569)
शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ।
चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ॥ 1-165-56(7570)
तद्वनं परितः पञ्चयोजनं निर्महीरुहम्।
निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम्॥ 1-165-57(7571)
तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः।
मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम्॥ 1-165-58(7572)
ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम्।
उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम्॥ 1-165-59(7573)
तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम्।
पाषाणसंघट्टनिभैः प्रहारैरभिजघ्नतुः॥ 1-165-60(7574)
अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम्।
बाहुयुद्धमभूद्धोरं बलिवासवयोरिव।
युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम्॥' 1-165-61(7575)
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः।
सह मात्रा च ददृशुर्हिडिम्बामग्रतःस्थिताम्॥ ॥ 1-165-62(7576)
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः॥ 165 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-165-2 मेघसंघातवर्ष्मा अतिकृष्णशरीरः॥ 1-165-32 गमिष्यामि गमयिष्यामि॥ 1-165-54 निर्वृक्षं अकण्टकवृक्षरहितम्॥ पञ्चषष्ट्यधिकशततमोऽध्यायः॥ 165 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|